पूर्वम्: ८।४।१७
अनन्तरम्: ८।४।१९
 
सूत्रम्
शेषे विभाषाऽकखादावषान्त उपदेशे॥ ८।४।१८
काशिका-वृत्तिः
शेषे विभाषा ऽकखादावषान्त उपदेशे ८।४।१८

नेः इति वर्तते, उपसर्गातिति च। अककारादिरखकारादिरषकारान्तः च उपदेशे यो धातुः स शेषः, तस्मिन् परतः उपसर्गस्थान्निमित्तातुत्तरस्य नेः नकारस्य विभाष णकार आदेशो भवति। प्रणिपचति, प्रनिपचति। प्रणिभिनत्ति, प्रनिभिनत्ति। अकखादौ इति किम्? प्रनिकरोति। प्रनिखादति। अषान्त इति किम्? प्रनिपिनष्टि। उपदेशग्रहणं किम्? इह च प्रतिषेधो यथा स्यात्, प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यति इति। इह च मा भूत्, प्रणिवेष्टा। प्रणिवेक्ष्यति।
न्यासः
शेषे विभाषाऽकखादावषान्त उपदेशे। , ८।४।१८

"उपसर्गात्()" ८।४।१४ इति वत्र्तते। उपसर्गत्वं च यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति भवति। धातुरेव क्रियावची, तमेव प्रति प्रादीनामुपसरग्त्वम्()। ततश्चोपसर्गग्रहणेन धातौ सन्निधापिते तस्यैवाकखादित्वमषान्तत्वं च विशेषणं विज्ञायते, इत्यत आह--"अककारादिरखकारादिरषान्त उपदेशे यो धातुः" इति। आद्यन्तग्रहणे उभे अपि विस्पष्टार्थे; "अकखे अषे" इत्येषं सिद्धत्वात्()। यदि सर्वैरेवाककारादिभिस्तदादिधिधिस्तदन्तविधिर्वा स्यात्(), तदा सर्वेषां द्वन्द्वं कृत्वा "अकखषे" इत्येवं ब्राऊयात्()। "अकखे अषे" इति वचनात्? केनचित्? तदादिविधिः, केनचित्? तदन्तविधिरिति विज्ञायते। अत्र त्वेतावान्? सन्देहः स्यात्()--केन तदादिविधिः, केन वा तदन्तविधिरिति, स चापि व्यास्यानान्निवर्त्तिष्यत इति। शेषग्रहणमिति स्पष्टार्थम्()। यदि च गदादिषु विभाषा स्यात्(), पूर्वयोगो निरर्थकः स्यात्()। उपदेशग्रहणमपि स्पष्टार्थमेव। शक्यते तद्धि "उपसर्गादसमासेऽपि णोपदेशस्य" ८।४।१४ इत्यतोऽनुवत्र्तयितुमुपदेशग्रहणं मण्()डूकप्लुतिन्यायेन। "प्रनिपिनष्टि" इति। "पिष्लृ सञ्चूर्णने" (धा।पा।१४५२), "रुधादिभ्यः श्नम्()" ३।१।७८। "इह च प्रतिषेधः" इत्यादि। "प्रतिपेक्ष्यति" इति। पिणेः षकारस्य "षढोः कः सि" ८।२।४१ इति कत्वेऽकखादित्वादवान्तत्वाच्चासत्युपदेशग्रहणे प्रतिषेधो न स्यात्()। अ()स्मस्तु सति न भवति, उपदेशे षकारान्तत्वादिति। "इह च मा भूत्()" इति। प्रतिषेध इत्यपेक्ष्यते। "प्रणिदेष्टा" इति। अत्र "विश प्रवेशने" (धा।पा।१४२४) इत्येतस्य व्रश्चादिसूत्रेण ८।२।३६ षत्वे कृते षकारान्तत्वादुपदेशग्रहणेऽसति प्रतिषेधः स्यात्()। अ()स्मस्तु सति न भवति। अपि चोपदेशग्रहणेऽसति प्रणिचकार, प्रचिचखादेत्यभ्यासस्य "कुहोश्चुः" ७।४।६२ इति चुत्वे प्रतिषेधो न स्यात्(); अकखादित्वात्()। अ()स्मस्तु सति भवति॥
बाल-मनोरमा
शेषे विभाषाऽकखादावषान्त उपदेशे ७९, ८।४।१८

शेषे विभाषा। अकखादाविति च्छेदः। "नेर्गदनदे"ति पूर्वसूत्रोक्कतधातुभ्योऽन्यः शेषः। तदाह--गदनदादेरन्यस्मिन्निति। ननु णत्वप्रकरणं संहिताधिकारस्थं, ततश्चाऽविवक्षितायां संहितायामुपसर्गात्परत्वाऽभावाण्णत्वाऽभावः, विवक्षितायां तु णत्वमिति विकल्पसिद्धेः किमिह विभाषाग्रहणेनेत्यत आह--इहोपसर्गाणामिति। उक्तमिति। "हरिणे"ति शेषः। अत्र "एकपदे" इत्येन अखण्डं पदं विवक्षितं, "नित्यासमासे" इति लिङ्गात्। अखण्डत्वं च पदभिन्नोत्तरखण्डकत्वम्। अन्यथा "राजीयती"त्यादौ "अतो गुणे" इति शपा पररूपमेकादेशः पक्षे न स्यात्। अर्थनिर्देशश्चेति। धातुपाठे "भू सत्ताया"मित्याद्यर्थनिर्देश इत्यर्थः। उपलक्षणमिति। प्रदर्सनमात्रमित्यर्थः। नन्वर्थान्तरपरिसंख्या कुतो न स्यादित्यत आह--यागादिति। न च "यागात्स्वर्गो भवती"त्यादावुत्पत्त्यादौ लक्षणा कुतो न स्यादिति वाच्यं, प्रयोगप्राचुर्यसत्त्वात्। पाणिनिर्हि धातुपाठे धातुन् कांश्चिदर्थसहितान्कांश्चिदर्थरितान्पठतीति "चुटू" इति सूत्रभाष्ये स्थितम्। न चातिप्रसङ्गः शङ्क्यः, "अनेकार्था अपि धातवो भवन्ती"ति भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतेः। सर्वेषु धातुष्वर्थनिर्देशस्त्वाधुनिकः। एवं च "सेधतेर्गता" विति सूत्रे गतावित्युपादानात्षिध गत्यामित्यर्थनिर्देशोऽपाणिनीय एवेति दिक्। ननु भूधातोः केवलस्योत्पत्त्याद्यर्थकत्वे उद्भवीत्यादौ उपसर्गा व्यर्था इत्यत आह-- उपसर्गास्त्विति। उपसर्ग विनापि भूधातोरुत्पत्त्याद्यर्थप्रतीतेः "उद्भवती"त्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव, न तु वाचका इति भावः। द्योतकत्वं वा तेषां किमर्थं स्वीकार्यमित्यत आह-- प्रभवतीत्यादि। प्रभवतीत्यादि। प्रभवः-- प्रकाशः उत्पत्तिः शक्तिर्वा। पराभवः-- पराजयः। सम्भवः-सम्भावना। अनुभवः-- उपभोगः। अभिभवः--हिंसा। उद्भवः-- उत्पत्तिः। परिभवः--तिरस्कारः। उक्तं चेति। "हरिणे"ति शेषः। प्रहारः-- कशाद्याद्यातः। आहारो--भक्षणम्। संहारः-- वधः। विहारः- क्रीडा। परिहारः- परित्यागः। इति भूधातुप्रक्रिया। एध वृद्धाविति। जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति षह्भावविकाराः। तत्र चतुर्थावस्था वृद्धिरुपचयः। कत्थ्यन्ता इति। "कत्थ श्लाघाया"मित्यन्ता इत्यर्थः। अनुदात्तेत इति। ततस्च एतेभ्य आत्मनेपदमेवेति भावः। तत्र एध् इत्यस्मात् कर्तरि लटि तस्यात्मनेपदप्रथमपुरुषैकवचने तादेशे शपि एधत इति स्थिते--

तत्त्व-बोधिनी
शेषे विभाषाऽकखादावषान्त उपदेशे ६१, ८।४।१८

"नेर्गदनदे"ति सूत्रोक्तापेक्षया शेष इत्याह-- गदनदादेरन्यस्मिन्निति। उपदेशे किम्?। प्रनिचकार प्रनिचखादेत्यत्रापि निषेधो यथा स्यात्। अषान्तेति किम्?। प्रनिपिनष्टि। उपदेशग्रहणात्-- प्रनिपेक्ष्यते। "चक्षिङः क्शाञ्"। "प्रनिचक्शे"इत्यत्रापि निषेधः। शेषग्रहणं स्पष्टार्थम्। णत्वशास्त्रे संहितायामित्यधिकारात्संहितायामववक्षितायां णत्वाऽभावः, संहितायां तु णत्वमिति विकल्पसिद्धेः किमनेन विभाषाग्रहणेनेत्याशङ्का न कार्येत्याह-- इहोपसर्गाणामित्यादि। एकपद इत्येनैव सिद्धे समासग्रहणं गोबलीवर्दन्यायेनेति बोध्यम्। वाक्ये त्विति। सा संहिता विवक्षाधीना न त्वत्र नित्येत्यर्थः। उपलक्षममिति। एतच्च सत्ताद्यर्थनिर्देशं कृतवतो भीमसेनस्यापि संमतमित्यत्र "कुर्द खुर्द गुर्द गुद क्रीडायामेवे"त्येवकारो ज्ञापकः। "सेधतेर्गतौ" इति सूत्रे गतावित्येतदपि "षिध गत्या"मित्याद्यर्थनिर्देशस्योपलक्षणत्व एव घटते नान्थेति दिक्। उत्पद्यत इत्याद्यर्थादिति। एवं च उपसर्ग विनाप्युत्पत्त्यर्थप्रतीतेरुद्भवतीत्यादौ प्रयुज्यमानोऽप्युपसर्गो द्योतक एव न तु वाचक इति भावः। उपसर्गेण धात्वर्थ इति। अत एवाऽमरेणाप्युक्तं-- "स्दाभाषणमालापः, प्रलापोऽनर्थकं वचः। अनुलापो मुहुर्भाषा, विलापः परिदेवनम्। विप्रलापो विरोधोक्तिः, संलापो भाषणं मिथः। सुप्रलापः सुवचनमपलापस्तु निह्नवः"इति।